रविवासरः ● कार्तिक १५, २०८३ सत्यं ◆ तथ्यं ◆ विचारः
त्वरितवार्ता
सरकारीकर्मिणां वाहनक्रयाय षष्टिलक्षपर्यन्तम् ऋणम्, ब्याजं च सरकारः दास्यतिशाकाहार-भोजनस्य षट् विज्ञानाधारिताः स्वास्थ्य-लाभाःपार्किन्सनरोगस्य चिकित्सायां नवा उपलब्धिः : जापानदेशे स्टेम-सेल-द्वारा विकसितकोषाणां प्रत्यारोपणम् आरब्धम्मिडिया हाउसस्य पत्रकारियाणां च उपरि जातस्य धरपकडस्य अन्वेषणं कर्तुं सरकारं प्रति राष्ट्रियस्वतन्त्रपार्ट्याः निर्देशःराज्यस्य चत्वारः सत्ताः : आधुनिकसुशासनाय वैदिकमार्गचित्रम्कञ्चुकस्य अन्तः प्रज्वलन् अग्निः : किं नेपाल-आरक्षकदलं (नेपाल प्रहरी) आन्तरिक-विस्फोटस्य उम्भायाम् अस्ति?पत्रकारग्रहणाधिकारविषये आरक्षकदलस्य वक्तव्यम्:चक्रवातस्य 'अर्णब' इत्यस्य प्रभावात् त्रिषु प्रदेशेषु प्रचुरवृष्टेः सम्भावना, श्वः आरभ्य मौसमे किञ्चित् सुधारः भविष्यति

अस्माकं विषये

संस्कृतवार्ता इति संस्कृतभाषायाः आधुनिकः गतिशीलश्च समाचारमञ्चः (News Portal) वर्तते। अस्माकं मुख्यम् उद्देश्यं प्राचीनभाषायाः संस्कृतायाः माधुर्यम्, ओजः, व्यापकतां च आधुनिकानाम् सूचनाप्रौद्योगिकीमाध्यमानां साहाय्येण जनमनसि प्रतिष्ठापयितुम् अस्ति।

वयं केवलं वार्ताप्रसारणं न कुर्मः, अपितु अस्माकं समृद्धायाः संस्कृत्याः, सनातनसभ्यतायाः, अमूल्यभाषायाः च संरक्षणं तथा संवर्धनम् अस्माकं परमं लक्ष्यम् अस्ति। अद्यतने सुसूचनायुगे राष्ट्रियाः, अन्तर्राष्ट्रियाः, सामाजिक्याः, वैज्ञानिक्याः, आर्थिक्याः, सांस्कृतिक्याः च विविधाः घटनाः समयेनैव पाठकान् प्राप्नुयुः इति अस्माकं ध्येयमस्ति।

अस्माकं मुख्यविशेषाः मुख्योद्देश्यानि च :

संस्कृतं केवलं पूजापाठस्य वा प्राचीनग्रन्थानां भाषा एव नास्ति, अपितु इयं जीवन्तजनानाम्, आधुनिकविज्ञानस्य, विश्ववैचारिकसंवादस्य, अस्माकं सभ्यतायाः मूलचेतनायाः च सम्यक् माध्यमं भवितुम् अर्हति इति अस्मद्मञ्चस्य विश्वासः अस्ति। वयम् संस्कृतपत्रकारितायाः नूतनाध्यायस्य रचनारताः स्मः।

भवान् अपि संस्कृतवार्तया सह सम्बद्धः भवतु, संस्कृतभाषायाः, संस्कृतेः, सभ्यतायाः च प्रचारप्रसारयोः सहयागी भवतु!