टोकियो-जापानदेशे पार्किन्सन-रोगस्य चिकित्सायाः कृते स्टेम-सेल-प्रौद्योगिक्याम् आधारितवती चिकित्सा आरब्धा अस्ति। प्रयोगशालायाः विकसितात् स्टेम-सेलात् डोपामाइन-उत्पादकान् मष्तिष्कस्य कोषान् निर्माय रोगिणः मष्तिस्के प्रत्यारोपिताः इयं चिकित्सा पार्किन्सन-चिकित्सायां नूतनान् सम्भावगान् दर्शितवती।
जापानी-औषधि-उत्पादक-कम्पनी 'सुमितोमो फार्मा' शुक्रवासरे (३०-अक्टोबर्) प्रकाशिते निवेदने अवदत् यत् क्योटो-विश्वविद्यालय-अस्पताले अक्टोबर-मासे प्रथमं व्यावसायिकं प्रत्यारोपणं कृतम् इति। कम्पनी अस्याः चिकित्सायाः कृते ‘एम्चेप्री’ नाम प्रयुक्तवती। अस्याः औषधीयं नाम रागुनेप्रोसेल इति अस्ति। इयं चिकित्सा जापानदेशे ससर्त-स्वीकृतिं प्राप्य व्यावसायिकरूपेण प्रयोगे आगता अस्ति। इयं पार्किन्सन-रोगस्य चिकित्सायां स्टेम-सेल-प्रौद्योगिक्याः महत्त्वपूर्णम् उपलव्धित्वेन वीक्ष्यते।
कथं कार्यं करोति स्टेम-सेल-चिकित्सा?
पार्किन्सन-रोगः मष्तिस्केेन सम्बन्धितः दीर्घकालीनः क्रमशः वर्धमानः च रोगः अस्ति। अस्मिन् मष्तिष्कस्य विशिष्टक्षेत्रे स्थिताः डोपामाइन-उत्पादकाः स्नायुकोषाः (न्युरोन्) क्रमशः नष्टाः भवन्ति। डोपामाइन शरीरस्य गतिं, सन्तुलनं, पेशीनां च गतिविधीः नियन्त्रयितुम् आवश्यकः रासायनिकः सन्देशवाहकः अस्ति।
डोपामाइनस्य न्यूनीकरणानन्तरं रोगिषु हस्तपादकम्पः, शरीरस्य काठिन्यं, गमनस्य काठिन्यं, शरीरस्य सन्तुलनरक्षणे समस्यादयः लक्षणाः दृश्यन्ते।अद्यत्वे प्रचलिताः औषधयः मुख्यतया डोपामाइनस्य न्यूनतां पूरयित्वा लक्षणान् नियन्त्रयितुम् साहाय्यं कुर्वन्ति। परन्तु नष्टान् स्नायुकोषान् न पुनःस्थापयन्ति। नूतनचिकित्सायां स्वस्थदातृभ्यः प्राप्तान् वयस्ककोषान् प्रयोगशालायां विशेषप्रक्रियया ‘इन्ड्युस्ड-प्लुरिपोटेन्ट-स्टेम-सेल्’ (iPS Cells) रूपेण रूपान्तरयन्ति। एतान् स्टेम-सेल्-कोषान् विविधप्रकारेषु कोषेषु विक्सितुं शक्नुवन्ति।
ततः तान् डोपामाइन-उत्पादकान् स्नायुकोषान् (डोपामिनर्जिक-न्युरोन्) रूपेण विकस्य शल्यक्रियनया रोगिणः मष्तिस्के प्रत्यारोपयन्ति।
एवं प्रत्यारोपिताः कोषाः मष्तिस्के डोपामाइनम् उत्पादयितुम् आरभन्ते चेत् पार्किन्सन-लक्षणेषु सुधारः भवितुम् अर्हति इति वैज्ञानिकानाम् अपेक्षा अस्ति।
अस्याः प्रौद्योगिक्याः विकासे क्योटो-विश्वविद्यालयस्य प्राध्यापकस्य डा. जुन-ताकाहासी-नेतृत्वस्य दलस्य महत्त्वपूर्णं योगदानम् अस्ति।
सप्तसु रोगिषु कृते परीक्षणे दृश्यते सुधारः
अस्याः चिकित्सायाः प्रभावकारितायाः सुरक्षायाः च प्रारम्भिकम् अध्ययनं क्योटो-विश्वविद्यालय-अस्पताले कृतम् आसीत्। २०१८-तमात् वर्षात् आरब्धे चिकित्सीय-नेतृत्वे कृते परीक्षणे ५० तः ६९ वयस्काः सप्त पार्किन्सन-रोगिणः भागम् ऐच्छन्। परीक्षणस्य फलं अन्तर्राष्ट्रिय-वैज्ञानिक-पत्रिकायै ‘नेचर्’ इत्यत्र प्रकाशितम् आसीत्। अध्ययनस्य मुख्यनिष्कर्षः इदृशः अस्ति :
गतौ सुधारः : सप्तसु चतुर्षु रोगिषु शारीरिकगतौ मोटर-फङ्ग्सने च सुधारः दृष्टः।
सुरक्षा : द्विवर्षीयस्य अनुगमनेन चिकित्सया सह सम्बन्धितः गम्भीरः प्रतिकूलप्रभावः न दृष्टः।
कोषस्य सक्रियता: मष्तिष्कस्य स्क्रेनेन प्रत्यारोपिताः कोषाः जीविताः सन्ति तथा च डोपामाइन-उत्पादनस्य गतिविधीः दृश्यन्ते स्म।
तथापि सप्तणां लघुसमूहकृतपरीक्षणस्य आधाराणि इयं चिकित्सा सर्वेषां रोगिणां कृते प्रभावकारी भवति वा पार्किन्सनं निवारयति वा इति निष्कर्षः नेतुं न शक्यते। अस्याः दीर्घकालीनप्रभावकारितायाः सुरक्षायाः च कृते अतिरिक्तम् अध्ययनम् आवश्यकम् अस्ति।
जापानदेशे ससर्त-स्वीकृतिः, अतिरिक्तम् अध्ययनं च प्रचलति
जापानस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन २०२६ मार्च-मासस्य ६ दिनाङ्के ‘एम्चेप्री’ इत्यस्मै ससर्तम् निश्चितकालावधेश्च उत्पादनस्य विक्रीयायाः अनुज्ञा दत्ता आसीत्। इयं स्वीकृतिः प्राप्ता विश्वस्य प्रथमा iPS-सेल-आधारित-पुनर्योजी-औषधिः अस्ति।
इयं चिकित्सा विशेषतः लेभोडोपा-आदीनां लब्धानाम् औषधीनां पर्याप्तलाभं न प्राप्तानां पार्किन्सन-रोगिणां शारीरिकगतिसम्बन्धि-लक्षणान् सुधारयितुम् लक्षिता अस्ति।ससर्त-स्वीकृतेः अर्थः अस्याः प्रभावकारितायाः दीर्घकालीनसुरक्षायाः च प्रमाणानां सङ्कलनकार्यम् अधुनापि प्रचलति इति। अतएव चिकित्सां पूर्णरूपेण प्रमाणितरोगापहारि-पद्धतिरूपेण मा मन्तुम्।जापानदेशे स्वीकृतेः अनन्तरं अस्याः प्रभावकारितायाः पुष्टिं कर्तुम् अतिरिक्तपरीक्षणम् अपि प्रवर्धितम् अस्ति। जापानस्य क्लिनिकल-ट्रायल-पञ्जीकरण-प्रणाल्यां स्थितायाः विवरणानुसारं रागुनेप्रोसेल-प्रयुज्य पञ्चत्रिंशत् (३५) रोगिषु अतिरिक्तम् अध्ययनं कर्तुं योजना अस्ति।
प्रथमस्य रोगिणः प्रत्यारोपणं सफलम्
क्योटो-विश्वविद्यालय-अस्पताले अक्टोबर-मासस्य ३० दिनाङ्के सार्वजनिककृते विवरणानुसारम् अक्टोबरस्य आरम्भे एव पञ्चाशद्वर्षीयायाः एकायाः महिलायाः शरीरे ‘एम्चेप्री’ प्रत्यारोपिता आसीत्। प्रत्यारोपणानन्तरं तस्याः स्वास्थ्यस्थितिः समीचीना अस्ति, अस्पतालतः च विसृष्टा अस्ति इति अस्पतालः अवदत्।
कम्पनी-अनुसारम् इयं चिकित्साप्राप्ता प्रथमः रोगी शल्यक्रियापश्चात् सन्तोषजनकस्थितिम् अनुभवति। अधुना प्रत्यारोपितानां कोषाणां प्रभावकारिता सुरक्षा च निरन्तरम् अनुगम्येत।इयं प्रौद्योगिकी पार्किन्सन-रोगस्य चिकित्सायां नूतनान् सम्भावगान् उद्घाटितवती। विश्वभरम् कोटिपरिमिताः जनाः पार्किन्सन-रोगेन प्रभाविताः सन्ति इति अनुमानम् अस्ति। मष्तिस्के क्रमशः नश्यमानानां डोपामाइन-उत्पादककोषाणां विकल्पस्य विकासस्य अयम् प्रयासः सफलः भवति चेत् भविष्ये पार्किन्सन-चिकित्सापद्धत्यां महत्त्वपूर्णपरिवर्तनम् आगन्तुं शक्नोति।